|
|
 |
 |
|
|
१४ अश्वमेधिकपर्व.jpg)
॥ श्रीः ॥
14.3. अध्यायः 003
अश्वमेधपर्व ॥ 1 ॥
Mahabharata - Ashvamedhika Parva - Chapter Topics
व्यासेन युधिष्ठिरंप्रति पुरुषकर्मणामीश्वरप्रेरणायत्ततया दोषानापादकत्वकथनपूर्वकं तदभ्युपगमेनापि पापापनोदायाश्वमेधादिविधानम्॥ 1 ॥ युधिष्ठिरेण स्वस्य तावद्द्रव्याभावनिवेदने व्यासेन तंप्रति हिमवति गिरौ विद्यमानमरुत्तयागावशिष्टद्रव्यानयनेनाश्वमेधकरणचोदना॥ 2 ॥
Mahabharata - Ashvamedhika Parva - Chapter Text
व्यास उवाच।
युधिष्ठिर तव प्रज्ञा न सम्यगिति मे मतिः।
न हि कश्चित्स्वयं मर्त्यः स्ववशः कुरुते क्रियाम्॥ 14-3-1(92409)
ईश्वरेण च युक्तोऽयं साध्वसाधु च मानवः।
करोत्यसुकरं कर्म तत्रका परिदेवना॥ 14-3-2(92410)
आत्मानं मन्यसे चाथ पापकर्माणमन्ततः।
शृणु तत्र यथा पापमपकृत्येत भारत॥ 14-3-3(92411)
तपोभिः क्रतुभिश्चैव दानेन च युधिष्ठिर।
तरन्ति नित्यं पुरुषा ये स्म पापानि कुर्वते॥ 14-3-4(92412)
यज्ञेन तपसा चैव दानेन च नराधिप।
पूयन्ते नरशार्दूल नरा दुष्कृतकारिणः॥ 14-3-5(92413)
असुराश्च सुराश्चैव पुण्यहेतोर्मखक्रियाम्।
प्रवर्तन्ते महात्मानस्तस्माद्यज्ञः परायणम्॥ 14-3-6(92414)
यज्ञैरेव महात्मानो बभूवुरधिकाः सुराः।
ततो देवाः क्रियावन्तो दानवानभ्यधर्षयन्॥ 14-3-7(92415)
राजसूयाश्वमेधौ च सर्वमेधं च भारत।
नरमेधं च नृपते त्वमाहर युधिष्ठिर॥ 14-3-8(92416)
यजस्व वाजिमेधेन विधिवद्दक्षिणावता।
बहुकामान्नवित्तेन रामो दाशरथिर्यथा॥ 14-3-9(92417)
यथा च भरतो राजा दौष्यन्तिः पृथिवीपतिः।
शाकुन्तलो महावीर्यस्तव पूर्वपितामहः॥ 14-3-10(92418)
युधिष्ठिर उवाच। 14-3-11x(7731)
असंशयं वाजिमेधः पारयेत्पृथिवीमपि।
अभिप्रायस्तु मे कश्चित्तं त्वं श्रोतुमिहार्हसि॥ 14-3-11(92419)
इमं ज्ञातिवधं कृत्वा सुमहान्तं द्विजोत्तम।
`अहमाराधयिष्यामि कथं शोकपरायणः।'
दानमल्पं न शक्नोमि दातुं वित्तं च नास्ति मे॥ 14-3-12(92420)
न तु बालानिमान्दीनानुत्सहे वसु याचितुम्।
तथैवाद्रविणान्कृच्छ्रे वर्तमानान्नृपात्मजान्॥ 14-3-13(92421)
स्वयं विनाश्य पृथिवीं यज्ञार्थं द्विजसत्तम।
करमाहारयिष्यामि कथं शोकपरायणः॥ 14-3-14(92422)
दुर्योधनापराधेनि वसुधायां नराधिपाः।
प्रनष्टा योजयित्वाऽस्मानकीर्त्या मुनिसत्तम॥ 14-3-15(92423)
दुर्योधनेन पृथिवी क्षपिता जयकारणात्।
कोशश्चापि विशीर्णोसौ धार्तराष्ट्रस्य दुर्मतेः॥ 14-3-16(92424)
पृथिवी दक्षिणा चात्र वाजिमेधे महाक्रतौ।
विद्वद्भिः परिदृष्टोऽयं शिष्टो विधिविपर्ययः॥ 14-3-17(92425)
न च प्रतिनिधिं कर्तुं चिकीर्षामि तपोधन।
अत्र मे भगवन्सम्यक्साचिव्यं कर्तुमर्हसि॥ 14-3-18(92426)
एवमुक्तस्तु पार्थेन कृष्णद्वैपायनस्तदा।
मुहूर्तमनुसञ्चिन्त्य धर्मराजानमब्रवीत्॥ 14-3-19(92427)
कोशश्चापि विशीर्णोऽयं परिपूर्णो भविष्यति।
विद्यते द्रविणं पार्थ गिरौ हिमवति स्थितम्॥ 14-3-20(92428)
उत्सृष्टं ब्राह्मणैर्यज्ञे मरुत्तस्य महीपते।
तदानयस्व कौन्तेय पर्याप्तं तद्भविष्यति॥ 14-3-21(92429)
युधिष्ठिर उवाच। 14-3-22x(7732)
कथं यज्ञे मरुत्तस्य द्रविणं तत्समाचितम्।
कस्मिंश्च काले स नृपो बभूव ददतांवर॥ 14-3-22(92430)
व्यास उवाच। 14-3-23x(7733)
यदि शुश्रूषसे पार्थ शृणु कारंधमं नृपम्।
यस्मिन्काले महावीर्यः स राजाऽऽसीन्महाधनः॥ ॥ 14-3-23(92431)
इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अश्वमेधपर्वणि तृतीयोऽध्यायः॥ 3 ॥
Mahabharata - Ashvamedhika Parva - Chapter Footnotes
7-3-18 प्रतिनिधिमनुकल्पम्॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|